LibrarySanskrit Documents

उपदेशरत्नमाला – UpadeshaRatnaMala | Upadesha Ratna Mala – Text

श्रीमते रामानुजाय नमः

अस्मासु वत्सलतया कृपया च भूयः
स्वेच्छावतीर्णमिव सौम्यवरं मुनीन्द्रम्।
आचार्य पौत्रमभिरामवरा भिधान
मस्मद्गुरं परम कारुणिकं नमामि॥१॥

प्राक् श्रीगिरीन्द्रगुरुराडुपदिष्ट मार्गं
कार्त्स्येन संनिगदता रुचिरोपयन्त्रा।
स्वप्रेमतः सुकलिता मुपदेशरत्न
मालां वहन्ति हृदि ये मम ते शरण्याः॥२॥

अथ उपदेशरत्नमाला

मद्देशिक द्रविडवेद गूरोः प्रसादा-
ल्लब्धं विचिन्त्य सरसादुपदेश मार्गम्।
पश्चात्तनार्थ मुपदेशमिमं ब्रवीमि
वृत्ते वसन्त तिलके विनिवेश्य सौम्ये॥१॥

नन्दन्ति ये श्रुतिधनाः सुकृतीप्सवोऽपि
यत्नोयमस्मदुपकार इति प्रहृष्टाः।
अन्येतु मत्सरवशादवधीरयेरन्
किं तेन तै रवमतिः किमु विस्मयाय॥२॥

भद्रं शठारिमुखभक्त जनस्य तत्तत्
दिव्य प्रबन्ध निवहस्य च दोष लेशात्।
मुक्तस्य देशिकजनस्य तदुक्तिराशे
रूज्जीवनस्य जगतां सहितस्य वेदैः॥३॥

कासारभूतमहदाह्वय भक्तिसार
श्रीमच्छठारि कुलशेखर भट्टनाथाः।
भक्ताघ्रिरेणु मुनियानकलिद्रुहोऽपि
भूमौ वितेनुरमुतः क्रमतो ऽवतारम्॥४॥

आविद्यमन्धतमसंपरिहर्तु मस्मिन्
लोके ऽवतीर्य सरसैर्द्रविड प्रबन्धैः।
वेदान् विवर्तितवतामवतारमास
ताराः क्रमादभिदधे शठजिन्मुखानाम्॥५॥

सर्वत्र गीतयशसः सरआह्वयस्य
भूताभिधानमहदाह्वय योश्चगुर्वोः।
दिव्यावतार दिवसानि तुलाख्यमासि
तिस्रः क्रमादभिदधे श्रवणादि ताराः॥६॥

भक्तेष्वमीषु दशसुप्रथमं परेभ्य
एते त्रय: समुदिता द्रविडागमैः स्वैः।
यस्माज्जगन्ति सकलान्युपजीवयन्तो
भक्तास्ततः प्रथम इत्यभिधानमेषाम्॥७॥

नावैषि वैभवममुस्य दिनस्य मुग्ध
चेतः किमेतदितिपृच्छसि चेब्रवीमि।
पश्य त्वमद्य परकालकवेः प्रदीप्ता
दिव्योदयेन ननु कार्तिककृत्तिकास्ताः॥८॥

अङ्गानिषड्द्रविडवेद चतुष्टयस्य
कर्तुं शठारिकलितस्य कलिप्रशास्ता।
यत्राविरास भुवि कार्त्तिक कृत्तिकासु
तद्वैभवज्ञ पदपद्ममुपैहि चेतः॥९॥

अद्योर्जमासि ननु रोहिणितारका सा
यस्यामवातरदसौ मुनिवाहनार्यः।
एतत्कृतावमलनादिपिरान् प्रबन्धे
रज्यद्भिरास्तिकजनै र्दिनमद्यलाल्यम्॥१०॥

ज्येष्ठा ऽद्य मासि धनुषि प्रथिमा कुतोऽस्याः
पृच्छ्येत चेदितिजनाः कथयाम्यहं वः।
विप्रेन्द्र भक्तपदरेण्ववतारयोगात्
त्रैविद्यबृद्ध बहुमानपदं शुभाहः॥११॥

तारां जनाः शृणुत तैषमघा किलाद्य
तस्या ब्रु वेह मतिशायिमहानुभावम्।
लब्धप्रसन्नमतिबैभव भक्तिसार
दिव्यावतार दिवसोऽयमभिज्ञ लाल्यः॥१२॥
कुम्भेपुनर्वसु भमद्य विलोकयध्वं,
तेजः किमह्न इति चेदहमस्य वक्ष्ये।
कोल्लीपुरीश कुलशेखर जन्म योगात्
श्लाघापदं भवति तारमिदं बुधानाम्॥१३॥

आख्यामि चारुतर माधवमासि राधा
तारानुभावमवनीजन बोधनाय।
द्रष्टुस्त्रयीं द्रविडतः कुरुकेश्वरस्य
दिव्यावतार दिवसोऽद्यहि सत्यवाचः॥१४॥

तारं किमस्ति वत माधव मासि राधा
तुल्यं किमस्ति शठकोप समान एकः।
कि वास्ति तद्द्रविड वेदसमः प्रबन्धः
कि पत्तनं कुरुकया सममस्ति लोके॥१५॥

अद्य प्रभावमपि मानस किंन वेत्सि
कोऽस्य प्रभाव इति चेत् प्रतिपादयामि।
पल्लाण्डुगानपर भट्टपतेः प्रसूतिः
स्वाती किलाद्य मिहिरे मिथुनं प्रपन्ने॥१६॥

भट्टाधिपोदय इहेत्यधि शुक्र मासं
स्वातीं य आर्द्रहृदया मुहुराद्रियन्ते।
तेषां न सन्ति सदृशा जगतीति चेत-
श्चिन्तामिमामनुकलं परिवबृंहयेथाः॥१७॥

भक्तेष्वमीषु मधुशासन मंगलाना-
माशासनेऽनवविका प्रियता यदस्य।
भट्टेश्वरस्य पिरियोपपदं प्रतीत
माल्वारिति प्रववृते तत एव नाम॥१८॥

अन्यस्यभक्तनिवहस्य निबन्धनाना-
मेतत्कृतादि मनिबन्धनमादिरासीत्।
तत्सार संग्रहतयापि च मंगलाना-
मापादनात् प्रणववन्निखिलागमानाम्॥१९॥

श्री भट्टनाथतदुपज्ञ निबन्धनाभ्यां
को वा प्रबन्ध पुरुषौ सदृशौ भवेताम्।
द्रष्ट्रृष्वमीषु निखिल द्रविडागमानां
तेष्वागमेषु च विचिन्तय चेत? एतत्॥२०॥

श्री विष्णुचित्तदुहितु र्जगतां जनन्याः
प्रख्यावतो मधुरपूर्वकवेश्च नाम्ना।
रामानुजस्य करुणामृतवारि राशे-
र्मासेन साकमवतार दिनं ब्रवीमि॥२१॥

मासे शुचौ प्रथमफल्गुनिका हि सैषा
गोदाऽत्र खल्ववततार सुरक्षितुं नः।
भोगांश्च पारमपदानवमत्य नित्यान्
भट्टेश्वरस्य महिता दुहिता भवन्ती॥२२॥

श्री विष्णुचित्तदुहितृत्ववरेण्य गोदा
दिव्योदयेन महिता शुचिफल्गुनीयम्।
तत्तुल्यमस्ति किमु चिन्तय चित्त तारं
गोदोपमा यदि भवेत्तदिदं तदा स्यात्॥२३॥

वह्वीयसः प्रणयतो भगवत्यजस्र-
मस्थानरक्षणभयाकुलवंशजाताम्।
भक्तानमून् निजगुणैरतिवर्त मानां
वाल्येऽपि पक्वचरितां भज चित्त! गोदाम्॥२४॥

यत्रोदभून्मधुरपूर्वकविर्महीयान्
तामद्वितीयविभवां मधुमासि चित्राम्।
उक्तान्यभक्त निवहोदयवासरान्नः
क्षेमंकरीमनुदिनं हृदयावधेहि॥२५॥

मन्त्राधिपे महति मध्यपदं यथाऽऽसी-
देवं हि पूर्वगुरवो द्रबिडागमानाम्।
आकूतमन्यजनदुर्ग्रहमत्रमत्वा
मध्ये न्यधुर्मधुर पूर्वकवेः प्रबन्धम्॥२६॥

आर्द्राभमद्य खलु मासि मधौ मनोज्ञे
को वाऽन्यतोऽस्यगरिमेत्यनुयोगकृद्भ्यः।
वक्ष्ये यतीश्वर समुद्भववैभवेन
तारं तदेतदखिलैः परिपालनीयम्॥२७॥

दिव्योदयर्क्ष निवहाच्छठजिन्मुखानां
नक्षत्रमेतदधिकं कुशलावहं नः।
आर्द्राह्वयेन विदितेमधुमासभाजि
यत्राविरास भगवान् यतिसार्वभौमः॥२८॥

अस्मद्गुरो र्यतिपतेः करुणाम्बुराशे-
स्त्राणाय नो भुवि लसद्भवतारकेति।
आर्द्राभवैभवमनन्य समानमेत-
द्वेलासु चित्त निखिलास्वनुसन्दधीथाः॥२९॥

एतास्सरः प्रमुखजन्म भुवो हि काञ्ची
मल्लौ मयूरनगरी कलिवैरिणस्तु।
जन्मस्थली कुरैय्यलूरिति विश्रुताभू-
रुत्पत्ति भूमि रुरैय्यूर्मुनि वाहनस्य॥३०॥

पृथ्व्यांहि भक्तपदरेण्ववतार भूमि
मण्डङ्गुडीति नगरी महिता प्रतीता।
विख्यातकीर्ति कुलशेखर जन्मदेशः
प्रख्यावती निचुलनामपुरी जगत्याम्॥३१॥

मान्यापुरी मलिशयित्यभिधानरम्या
प्रार्थ्यां जनस्य कुरुकापि च विल्लिपुत्तूर्।
श्री भक्तिसार शठशातन विष्णुचित्त
जन्मस्थलानि भुवन प्रथितान्यमूनि॥३२॥

गोदासमुद्भवपुरं भुवि विल्लिपुत्तुर्
कोलूर्पुरंमधुरपूर्वकवेः प्रसूतिः।
रामानुजस्य करुणा वरुणालयस्य
मान्ये महोपपद भूतपुरे ऽवतारः॥३३॥

भक्तान् पराङ्कुशमुखानपितत्प्रबन्धान्
तद्वै भवार्ह मुपलालयतां गुरूणाम्।
उज्जीवनाय जगतामुदिताः प्रतीता
दिव्य प्रबन्धविषयाः कथयामि टीकाः॥३४॥

भक्तेषु तेषु वकुला भरणादिमेषु
तत्तत्प्रबन्धनिवहे कृत भक्तिमान्द्याः।
घोरे पतन्ति नरके तु समीप मेषां
प्राप्तुं च भीपरि वृतः त्यज चित्त तांस्त्वम्॥३५॥

प्रज्ञावदग्रसरकेसरभूषणादि
भक्तप्रभावमपिदिव्य निबन्ध भूम्नः।
नाथादयो यदिपरं नभवेयुरार्याः
के वा विदन्ति हृदय त्वमिदं मनुष्व॥३६॥

एकैकपूरुष सुरक्षितवंश रित्या
गुप्ता प्रपत्ति पदवी गुरुभिः पुराणैः।
रामानुजस्तु परया दयया दयालुः
सीमामिमामतिययौ जगतां हिताय॥३७॥

अस्योचितां परम वैदिक दर्शनस्य
रामानुजार्यरचितो पकृतिं कृतज्ञः।
रङ्गेश्वरः प्रथयितुं रचयाञ्चकार
रामानुजस्य मतमित्यभिधानमस्य॥३८॥

चन्द्रो यतीन्द्रजलधेः कुरुकाधिपार्यः
श्री माधवोमुनिरुभावपि कृष्णसूरी।
योगी च सुन्दरबरो हि सहस्रगाथा
व्याख्या व्यधुर्हदय ताननिशं भजेथाः॥३९॥

एताश्शठारि कृतगीति सहस्रटीका
क्लृप्ता नचेद् गुवरैः कुरुकेशमुख्यैः।
तस्य प्रबन्ध तिलकस्य हि हन्त भावं
जानन्ति केऽद्य हृदय त्वमुदीरयेथाः॥४०॥

निःसीम निर्मलधिया कुरुकाधिपेन
लब्ध्वा प्रसादलहरिं यति पुंगवस्य।
गाथासहस्रविषया विहिता हि टीका
संगृह्णति सकलमात्मनि षट्सहस्री॥४१॥

प्रज्ञावतां निरवधि प्रथितात्म भूमा
भट्टारकस्य दयया निगमान्त योगी।
यामाततानशठजिन्निगमस्य टीका
सा ग्रन्थतो नवसहस्रमिता समिन्धे॥४२॥

लब्ध्वा कृपासमुदितं कलिवैरिदास
सूरेर्निदेशमभय प्रदराजनामा।
यत् क्लृप्तवान् विवरणं द्रविडागमस्य
तद्ग्रन्थतस्त्रि गुणिताष्ट सहस्रसंख्यम्॥४३॥

सूक्तीःसुधाकरसखी: कलिवैरिदास
नाम्नो गुरोः समवलम्व्य हि कृष्णपाद।
यां द्राविडोपनिषदो विवृतिञ्चकार
षट्त्रिंशतादशशतैः प्रमिता मता सा॥४४॥

पश्चात्तनानपिजनाननुगृह्णताया
रम्योपयन्तृ मुनिमा स्फुटवैभवेन।
वृत्तिर्व्य॑धायिशठजिन्निगमस्य सेयं
ग्रन्थैर्द्विषड्दशशव प्रमितै र्धिनोति॥४५॥

प्रायेण सम्यगितर द्रविडागमानां
टोकाः कृतायदभय प्रदराजनाम्ना।
तेनैव तेषु गहनेषु मति र्गुरुणां
लोकोपदेश समयेष्वधुनास्ति रम्या॥४६॥

केषांचिदेव विवृतिर्द्रविडागमानां
वेदान्तिभि विरचिता न पुनः समेषाम्।
प्रज्ञाभरादवरजेन जगद्गुरोस्ताः
सौम्योपयन्तृ मुनिना कलिताश्च काश्चित्॥४७॥

तां कृष्णपाद लिखितां शठवैरिवेद
व्याख्यां ददस्व महतीमिति कृष्णपादात्।
आदाय देशिकवरः कलिवैरिदासः
प्रादत्त माधव गुरो र्दयमान चेताः॥४८॥

तां माधवः पुनरुपा कुरुतात्मसूनोः
सोऽप्यद्वितीय करुणाख्य वराहसूरेः।
सोऽपि स्वकीयतनयस्य स चाप्युदारः
पश्चात्तनाननुजिघृक्षुरतीव तेभ्यः॥४९॥

आख्येमनः कलयनम्पेरुमालथोन-
म्माल्वारिति व्यवहृते प्रणयेन भक्तैः।
नन्जीयरित्यपि च नाम तथा प्रवृत्तं
नम्विल्लयित्यपि तथा विहितां च संज्ञाम्॥५०॥

वाधूलवंशतिलको ऽसितवारणार्यः,
प्रीत्या कदापि कलिसूदन दाससूरेः।
आख्यां जगद्गुरुरिति प्रथितामकार्षीत्
तस्मात्तदा प्रभृति सा नियता च तस्मिन्॥५१॥

तां कृष्णपाद उपलालयतिस्म संज्ञां
कृत्वातदर्ह चरितस्य निजस्य सूनोः।
तेनैव सा जनहिताय भुवि प्रवृत्ता
संज्ञा जगद्गुरुरिति प्रथिता समन्तात्॥५२॥

श्री वचन भूषण महिमा

को वा प्रबन्ध इहलोकगुरोः प्रबन्धैः
सादृश्यमेति सकलेष्वपिवाङ्मयेषु।
तत्रापि किं वचनभूषण तुल्यमन्यत्
सत्यं ब्रवीमि तदिदं वचनं न मिथ्या॥५३॥

प्राचां प्रपत्ति पदवी मयतां गुरूणां
रोचिष्णुना वचनरत्न कदम्बकेन।
एतां कृतिं ग्रथयतैव बुधात्मभूषां
दत्तं बरं वचनभूषण नामधेयम्॥५४॥

श्रीवचन भूषणका अधिकारीको दुर्लभता :-

जानन्ति के वचन भूषणवारिराशे-
र्धार्यं सदा हृदि सतामभिधेयरत्नम्।
के तत्प्रदर्शितपथेन च संचरन्ति
यः कोऽपि संभवति चेद्विरलोहि तादृक्॥५५॥

उग्राद्भवाब्धि कुहराद्द्रु तमुत्तितीर्षा
जायेत वो यदि जनास्तदुपाय एषः।
आलोच्यतां वचन भूषणमात्मनीदं
निष्ठीयतां च नियमेन तदुक्त मार्गे॥५६॥

ये देशिकादधिगतान्युपदेश वर्त्मा
न्यासज्य चेतसि तथाऽऽचरितु च शक्ताः।
ते यत्नतो वचन भूषणगूढ मर्थं
नैवा चरन्ति परिशील्य कुतो न विद्मः॥५७॥

सत्संप्रदायसुधिया सततोपलाल्या
लभ्येत चेद्वचन भूषण वाक्य टीका।
साव्यञ्जती सकलमस्य पदार्थजातं
मध्यस्थयैवदशया ननु भावनीया॥५८॥

सार्थाःस्मरामि यदि वाक्य विभूषणीया
वाचो वदामि यदि वा मधुराममापि।
आर्याः कथंनु भवतां मनसि प्रथेरन्
भूम्नाधियो हि विषयातिशयावगाहाः॥५९॥

भक्तिं विहाय पदयो र्निजदेशिकस्य
भक्ति प्रकर्षमपि ये भगवत्ययन्ते।
तेभ्योरमासहचरः परमं पदं त-
दातुं न हीच्छति नतेऽपि च तल्लभन्ते॥६०॥

ज्ञानं परं तदुचिताचरणं च यस्य
तस्मिन् गुरौ परमभक्तिजुषेजनाय।
भौमाः! स्वयंमधुरसाविलपद्म जायाः
कान्तःश्रियः करूणया निजधाम दत्ते॥६१॥

उज्जीवनाय यदि मानस मुत्सुकं वो
निष्ठीयतां निजगुरो श्चरणारविन्दे।
सत्यं ब्रवीमि मनुजाः फणिशायिनस्त-
द्दिव्यंपदं करतलामलकं भवेद्वः॥६२॥

उज्जीवनाय विहिता गुरुणोपकारा-
श्चित्ते लगन्ति विमला यदि चेतनानाम्।
देशान्तरे निवसनं न मनोऽपि मृष्येत्
वासः कथं नु भवितेति वयं न विद्मः॥६३॥

अत्रैव केवलमनन्यपरा लभेरन्
शुश्रुषणां निजगुरोरुपसेदिवांसः।
एनां प्रमेयसरणिं प्रतिपद्यमानाः
के वा त्यजन्ति निजदेशिकपाद मूलम्॥६४॥

अन्तेसतो गुरुरनारतमात्मरक्षां
शिष्यः प्रहृष्य कुरुतां गुरुदेह रक्षाम्।
अर्थं सुसूक्ष्ममिममाकलयन्ति चित्ते
स्याद् दुर्लभा तदपि वर्त्मनि तत्र निष्ठा॥६५॥

अत्यादरान्निजगुरुं कलिवैरि दासं
नित्यां विभूतिमवमत्य निरन्तरं यः।
शुश्रूषते स्म कुरु मानस! तस्य निष्ठां
पश्चान्मनोहरपते र्यति पुङ्गवस्य॥६६॥

सर्वेऽपि पूर्वगुरुवः समयेन येन
चेरुस्तमाकलयतामयथावदेव।
वाचो निशम्यवर मानस मा भ्रमीस्त्वं
वर्तस्व पूर्वतरदेशिक वर्तनेन॥६७॥

ये नास्तिका हृदय तान् विजहीहि मूर्खां
स्तानप्यपाकुरु य आस्तिक नास्तिकांश्च।
ये त्वास्तिका नयपथान्नपरि च्यवन्ते
तानन्वहं परिचिनुष्वतमोपहन्तृन्॥६८॥

आमोदवत्कुसुमसं वलनेन यद्व-
दामोदवान् भवति केश भरोऽप्यगन्धः।
तद्वद्भवन्तिगुणवज्जनसंगमेन
वीता गुणैरपि जना गुणवन्त एव॥६९॥

यत्पूतिगन्धमिलनं समुपैतिवस्तु
तत्पूतिगन्धमचिरादुपजायते हि।
एतत्क्रमेण रमणीय गुणो ऽपि लोके
निन्द्यान् गुणान् भजति निन्द्य गुणाश्रयेण॥७०॥

प्राचां वचांसि सकलानि निशम्य सम्यक्
चित्तेन तान्यवहितेन निजेन मत्वा।
नैवोपदिश्य कथयन्ति यथावभासं
शुद्धान्वयो ऽयमिति ये वतते हि मूर्खाः॥७१॥

प्राचां प्रबोध चरणे विमले गुरुणां
ये व्याहरन्ति तदुदा हृतया पदव्या।
प्रज्ञा निधिं गुरुवरं प्रतिपद्य लोका
मोहास्पदे जगति संप्रति मोदिषीध्वम्॥७२॥

बध्दांगुणैरनुगुणैरुपदेशरत्न
मालामिमां दधति ये हृदयेन नित्यम्।
अस्मद्गुरो र्यतिपतेः करुणा प्रवाह
पात्रीकृता परम संपदमाश्रयन्ते॥७३॥

अङ्गानुषङ्गिपुरुषारुचिरोपयन्तु
रत्राभिलस्यपदरक्त सरोज सूने।
सश्रद्धमात्म शिरसा यदि संस्पृशेम
प्राप्तः सनो ध्रुवममानवपाणिसङ्गः॥७४॥

रुचिरवरमुनेः कृतिंप्रतीतां
द्रविडमयीमुपदेशरत्नमालाम्।
अनुसमधिसितात्पदावलीना-
मनुपदिकल्पपदाभिजात पद्यैः॥

॥ इति उपदेशरत्नमाला ॥

Related Articles

Leave a Reply

Your email address will not be published.

Back to top button
error: Content is protected !!
%d bloggers like this: