श्रीयोगिराज स्वामीजीका मुक्तक तनियन् – Yogiraj Swamijee Muktak Taniyan
श्रीयोगिराज स्वामीजीका मुक्तक तनियन्
भाद्रमासे शुभेकृष्णे दशम्यां रविवासरे ।
आर्द्रभे भुविजाताय श्रीकमलाक्षाय मङ्गलम् ।।
सकलबुधवरेण्यं भाद्रकृष्णे दशम्यां
रविशुभदिनयुक्तार्द्रानक्षत्रेसुजाम् ।
सकलगुणनिधानं योगिराजाभिधानम्
कमलनयसूरिं देशिकं संश्रयामि ।।१।।
श्रकौशिकान्वयपयोनिधिपूर्णचन्द्रं
श्री स्वाम्यनन्तगुरूवर्यपदाब्जभृङ्गम् ।
अष्टाङ्गयोगनिपुणं चरमार्थनिष्ठं
भक्त्या भजामि महितं कमलाक्षसूरिम् ।।२।।
जगद्वन्द्यं श्रीमत्कुशिककुलचन्द्रं द्विजवरं
सदानन्तचार्येगुरूकुलमणावाहितधियम् ।
यमादीनां विज्ञं चरमपुरूषार्थैकविभवं
भजे भक्त्या नित्यं कमलनयनार्यं गरूवरम् ।।३।।
सकल जगति सिद्धं चन्द्रकान्त्याभकीर्तम्
कुशिक कुलकदीपं साधिताष्टाङ्गयोगम् ।
परम गुरूमन्ताचार्यपदैकभृङ्गम्
कमलनयनमार्यं योगिराजं भजामि ।।४।।
लक्ष्मीश वंश जन पङ्कज भास्करेन्द्र
संसारकर्दम जनस्य यथा वसन्तः ।
षड्वर्गवेग शमनाय यथा नरेन्द्रो
निवैर्दिकासुरजनेषु यथा सुरन्द्र ।।५।।
तादृग्गुणो गुरूवरो मम देशिकेन्द्रो
विश्वंभराक्रमकृते भगवानुपेन्द्रः ।
विद्याप्रसन्न गतिको भुवि मानवानां
तस्मै नमो गुरूवराय दयाश्रयाय॥६॥
प्राच्यादि पश्चाद्गिरिपुतपादो, ह्यब्भक्ष शब्दे न च चक्षमाणः
के खे स्थितं सर्वजगन्निदानं साक्षाद्धि कुर्वंदहरे सरोजे ॥७॥
गोदान दक्षं विनयैर्विलक्ष्यं, परेऽपि मैत्रेण च सन्चारन्तम्,
आचार्यवर्यङ्करणैरहार्यां तं नौमि नित्यं कमलाक्षसूरिम् ॥ ८॥
भवसागर जीवसमुद्धरणे जीतमानस रावणदुःकरणे
परितोदधिमेखलका पृथिवी जठरानलशामित निस्करणे ॥९॥
परलोकपथे प्रणनाय मतौ मम सर्वगतौ कमलेशयतौ
जय हे जय हे जय हे जय हे जयतां जयतां जयतां जयताम् ॥१०॥