Vekateshwara Suprabhatam Sanskrit|Kaushalya Supraja |श्रीवेङ्कटेशसुप्रभातम
श्रीवेङ्कटेशसुप्रभातम
कौशल्यासुप्रजा राम पूर्वा सन्ध्या प्रवर्तते । उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥१ ॥
उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज । उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥२ ॥
मातः समस्तजगतां मधुकैटभारेः वक्षोविहारिणि मनोहरदिव्यमूर्ते ।
श्रीस्वामिनि श्रितजनप्रियदानशीले, श्रीवेङ्कटेशदयिते तव सुप्रभातम् ॥३ ॥
तव सुप्रभातमरविन्दलोचने, भवतु प्रसन्नमुखचन्द्रमण्डले ।
विधिशङ्करेन्द्रवनिताभिरर्चिते, वृषशैलनाथदयिते दयानिधे ॥४ ॥
अत्र्यादिसप्त ऋषयः समुपास्य सन्ध्यां, आकाशसिन्धुकमलानि मनोहराणि ।
आदाय पादयुगमर्चयितुं प्रपन्नाः, शेषाद्रिशेखरविभो तव सुप्रभातम् ॥५ ॥
पञ्चाननाब्जभवषण्मुखवासवाद्याः, त्रैविक्रमादिचरितं विबुधाः स्तुवन्ति ।
भाषापतिः पठति वासरशुद्धिमारात्, शेषाद्रिशेखरविभो तव सुप्रभातम् ॥६ ॥
ईषत्प्रफुल्लसरसीरुहनारिकेल, पूगद्रुमादिसुमनोहरपालिकानाम् ।
आवाति मन्दमनिलः सहदिव्यगन्धैः, शेषाद्रिशेखरविभो तव सुप्रभातम् ॥७ ॥
उन्मील्य नेत्रयुगमुत्तमपञ्जरस्थाः, पात्रावशिष्टकदलीफलपायसानि ।
भुक्त्वा सलीलमथ केलिशुकाः पठन्ति, शेषाद्रिशेखरविभो तव सुप्रभातम् ॥८ ॥
तन्त्रीप्रकर्षमधुरस्वनया विपञ्च्या, गायत्यनन्तचरितं तव नारदोऽपि ।
भाषासमग्रमसकृत्करचारुरम्यं, शेषाद्रिशेखरविभो तव सुप्रभातम् ॥९ ॥
भृङ्गावली च मकरन्दरसानुविद्ध, झंकारगीतनिनदैः सह सेवनाय ।
निर्यात्युपान्तसरसीकमलोदरेभ्यः, शेषाद्रिशेखरविभो तव सुप्रभातम् ॥१० ॥
योषागणेन वरदध्नि विमथ्यमाने, घोषालयेषु दधिमन्थनतीव्रघोषाः ।
रोषात् कलिं विदधते ककुभश्च कुम्भाः, शेषाद्रिशेखरविभो तव सुप्रभातम् ॥११ ॥
पद्मेशमित्रशतपत्रगतालिवर्गाः, हर्तुं श्रियं कुवलयस्य निजाङ्गलक्ष्म्याः ।
भेरीनिनादमिव बिभ्रति तीव्रनादं, शेषाद्रिशेखरविभो तव सुप्रभातम् ॥१२ ॥
श्रीमन्नभीष्टवरदाखिललोकबन्धो, श्रीश्रीनिवास जगदेकदयैकसिन्धो ।
श्रीदेवतागृहभुजान्तरदिव्यमूर्ते, श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१२ ॥
श्रीस्वामिपुष्करिणिकाप्लवनिर्मलाङ्गाः, श्रेयोऽर्थिनो हरविरिञ्चिसनन्दनाद्याः ॥
द्वारे वसन्ति वरवेत्रहतोत्तमाङ्गाः, श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१४ ॥
श्रीशेषशैलगरुडाचलवेङ्कटाद्रि, नारायणाद्रिवृषभाद्रिवृषाद्रिमुख्यान् ।
आख्यां त्वदीयवसतेरनिशं वदन्ति, श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१५ ॥
सेवापराः शिवसुरेशकृशानुधर्म, रक्षोऽम्बुनाथपवमानधनाधिनाथाः ।
बद्धाञ्जलिप्रविलसन्निजशीर्षदेशाः, श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१६ ॥
धाटीषु ते विहगराजमृगाधिराज, नागाधिराजगजराजहयाधिराजाः ।
स्वस्वाधिकारमहिमाधिकमर्थयन्ते, श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१७ ॥
सूर्येन्दुभौमबुधवाक्पतिकाव्यसौरि-, स्वर्भानुकेतुदिविषत्परिषत्प्रधानाः ।
त्वद्दासदासचरमावधिदासदासाः, श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१८ ॥
त्वत्पादधूलिभरितस्फुरितोत्तमाङ्गाः, स्वर्गापवर्गनिरपेक्षनिजान्तरङ्गाः ।
कल्पागमाकलनयाकुलता लभन्ते, श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१ ९ ॥
त्वद्गोपुराग्रशिखराणि निरीक्षमाणाः, स्वर्गापवर्गपदवीं परमां श्रयन्तः ।
मर्त्या मनुष्यभुवने मतिमाश्रयन्ते, श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२० ॥
श्रीभूमिनायक दयादिगुणामृताब्धे, देवाधिदेव जगदेकशरण्यमूर्ते ।
श्रीमन्ननन्तगरुडादिभिरर्चिताङ्घ्रे ।, श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२१ ॥
श्रीपद्मनाभ पुरुषोत्तम वासुदेव, वैकुण्ठ माधव जनार्दन चक्रपाणे ।
श्रीवत्सचिह्न शरणागतपारिजात, श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२२ ॥
कन्दर्पदर्पहरसुन्दरदिव्यमूर्ते, कान्ताकुचाम्बुरुहकुड्मललोलदृष्टे ।
कल्याणनिर्मलगुणाकरदिव्यकीर्ते, श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२३ ॥
मीनाकृते कमठकोलनृसिंहवर्णिन्, स्वामिन् परश्वथ तपोधन रामचन्द्र ।
शेषांशराम यदुनन्दन कल्किरूप, श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२४ ॥
एलालवङ्घनसारसुगन्धितीर्थं, दिव्यं वियत्सरसि हेमघटेषु पूर्णम् ।
धृत्वाद्य वैदिकशिखामणयः प्रहृष्टाः, तिष्ठन्ति वेङ्कटपते तव सुप्रभातम् ॥२५ ॥
भास्वानुदेति विकचानि सरोरुहाणि, संपूरयन्ति निनदैः ककुभो विहङ्गाः ।
श्रीवैष्णवाः सततमर्थितमङ्गलास्ते, धामाश्रयन्ति तव वेंकट सुप्रभातम् ॥२६ ॥
ब्रह्मादयः सुरवराः समहर्षयस्ते, सन्तः सनन्दनमुखास्त्वथ योगिवर्याः ।
धामान्तिके तव हि मङ्गलवस्तुहस्ताः, श्रीवेंकटाचलपते तव सुप्रभातम् ॥२७ ॥
लक्ष्मीनिवास निरवद्यगुणैकसिन्धो, संसारसागरसमुत्तरणैकसेतो ।
वेदान्तवेद्यनिजवैभवभक्तभोग्य, श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२८ ॥
इत्थं वृषाचलपतेरिह सुप्रभातं, ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः ।
तेषां प्रभातसमये स्मृतिरङ्गभाजां, प्रज्ञां परार्थसुलभा परमां प्रसूते ॥२ ९ ॥
।।इति श्रीवेङ्कटेशसुप्रभातम् ।।
Prativadi Bhayakar Swami