LibrarySanskrit Documents

पंचायुधस्तोत्रम – PanchaYughaStotram Sanskrit

स्फुरत्सुहस्त्रार शिखातितीव
सुदर्शनं भास्करकोटितूल्यम्।
सुरद्विषां प्राणविनाशि विष्णोः
चक्रं सदाऽहं शरणं प्रपद्ये।।

विष्णोर्मुखोत्थानिल पूरितस्य
यस्य ध्वनि दर्दानव दर्पहंता।
तं पांचजन्यं शशिकोटि शुभ्रं
शंखं सदाऽहं शरणं प्रपद्ये।।

हिरण्मयीं मेरुसमानसारां
कौमोदकी दैत्यकुलैकहंत्रीम्।
वैकुंठ वामाग्र कराभिमृष्टां
गदां सदाऽहं शरणं प्रपद्ये।।

रक्षोऽसुराणां कठिनोग्र कंठ
च्छेदक्षरछोणित दिग्धधारम्।
तं नंदकं नाम हरेः प्रदीप्तं
खड्गं सदाऽहं शरणं प्रपद्ये।।

यज्यानिनाद श्रवणात्सुराणां
चेतांसि निर्मुक्त भयानि सधा ।
भवंति दैत्याशनि वाणवर्षि
शाईगं सदाऽहं शरणं प्रपद्ये।।

इमं हरे पंचमहायुधानां
स्तवं पठेत् योऽनुदिनं प्रभाते।
समस्त दुखानि भयानि सयः
पापानि नश्यन्ति सुखानि सन्ति।।

वने रणे शत्रुजलाग्निमध्ये
यदृच्छयापत्सु महाभयेषु।
इदं पठन् स्तोत्र मनाकुलात्मा
सुखी भवेत् तत्कृतसर्वरक्षः।। 

सशंखचक्रं सगदाऽसि शाईगं
पीतांबरं कौस्तुभवत्स चिह्नम्।
श्रिया समेतोज्ज्वलशोभितांगं
विष्णुं सदाऽहं शरणं प्रपद्ये।। 

जले रक्षतु वाराह स्थले रक्षतु वामनः।
अटव्यां नारसिंहश्च सर्वतः पातु केशवः ।।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
error: Content is protected !!
%d bloggers like this: