धाटीपञ्चकम् – DhatiPanchakam – Sanskrit
पादुके यतिराजस्य कथयंति यदाख्यया
तस्य दाशरथेः पादौ शिरसा धारया म्यहम।।
पाषण्डद्रुमपण्ड दावदहनः चार्वाक शैलाशनिः
बौद्धध्वान्त निरासवासरपतिः जैनेभ कण्ठीरवः ।
मायावादि भुजङ्गभड्गगरुडसैविद्य चूडामणि
श्रीरङ्गेश जयध्वजो विजयते रामानुजोऽयं मुनिः ।। १
पाषण्डषण्ड गिरिखण्डन वज्रदण्डाः
प्रच्छन्नबौद्ध मकरालय मन्थदण्डाः।
वेदान्तसार सुखदर्शन दीपदण्डा
रामानुजस्य विलसन्ति मुनेस्त्रिदण्डाः।। २
चारित्रोद्धारदण्डं चतुरनयपथालंक्रिया केतुदण्डं
सद्विद्यादीपदण्डं सकलकलिकथासंहतेः कालदण्डम् ।
त्रय्यन्तालम्बदण्डं त्रिभुवनविजयच्छत्र सौवर्णदण्ड
धत्ते रामानुजार्यः प्रतिकथक शिरोवज्रदण्डं त्रिदण्डम्।। ३
त्रय्या मागल्यसूत्रं त्रियुगयुगपथारोहणालम्बसूत्रं
सद्विद्यादीपसूत्रं सकलकलिकथासंहतेः कालसूत्रम्।
प्रज्ञासूत्रं बुधानां प्रशमधन मनत्पदमिनी नालसूत्रं
रक्षासूत्रं मुनीनां जयति यतिपतेर्वक्षसि ब्रह्मसूत्रम्॥ ४
पाषण्डसागर महाबडबामुखाग्निः
श्रीरङ्गराज चरणाम्बुज मूलदास ।
श्रीविष्णलोकमणिमण्डप मार्गदायी
रामानुजो विजयते यतिराजराजः।। ५
इति घाटीपञ्चकं