LibrarySanskrit Documents
Mangal Aarati Samskrit सुमङ्गलस्तोत्र (मङगल आरती)
सुमङ्गलस्तोत्र (मङगल आरती)
सुमङ्गलं मङ्गलमीश्वराय ते
सुमङ्गलं मङ्गलमच्युताय ते ।
सुमङ्गलं मङ्गलमन्तरात्मने
सुमङ्गलं मङ्गलमब्जनाभ ते ॥ ॥१ ॥
सुमङ्गलं श्रीनिलयोरुवक्षसे
सुमङ्गलं पद्मभवादिसेविते ।
सुमङ्गलं पद्मजगन्निवासिने
सुमङ्गलं चाश्रितमुक्तिदायिने ॥२ ॥
चाणूरदर्पघ्नसुबाहुदण्डयोः
सुमङ्गलं मङ्गलमादिपूरुषे ।
बालार्ककोटिप्रतिभाय ते विभो
चक्राय दैत्येन्द्रविनाशहेतवे ॥३
शङ्खाय कोटीन्द्रसमानतेजसे
शार्ङ्गाय रत्नोज्ज्वलदिव्यरूपिणे ।
खड्गाय विद्यामयविग्रहाय ते
सुमङ्गलं मङ्गलमस्तु ते विभो ॥४
तदावयोस्तत्त्वविशिष्टशेषिणे
शेषित्वसम्बन्धनिबोधनाय ते ।
यन्मङ्गलानां च सुमङ्गलाय ते
पुनः पुनर्मङ्गलमस्तु सन्ततम् ॥५ ॥