Bhajan LyricsHindi Bhajan LyricsHindi DocumentsLibraryNepali Bhajan LyricsNepali DocumentsSanskrit Documents

अथ यतिराजस्तोत्रम् – Yetiraj Stotram – Ramanuj Stotram

?? अथ यतिराजस्तोत्रम् – Yetiraj Stotram ??

भजे भाष्यकारं भजे लक्ष्मणार्यं भजे शालसद्ग्रामरामानुजार्य्यम् ।। 
धनं यस्य सद्ब्रह्मविद्यानिदानं बुधानन्दरूपं स्वरूपं दधानम् ।।
परप्रापकाङ्घ्रिद्वयीसन्निधानं विधानं विभूतिद्वयेशाभिधानम् ॥१॥
भजे भाष्यकारं….
नमो नित्यदिव्यप्रबन्धादिकृद्भ्यो नमः पाञ्चरात्रादिविद्भ्यो गुरुभ्यः
नमो मद्गुरुभ्यो नमस्तद्गुरुभ्यो नमः पञ्चसंस्कारविद्यागुरुभ्यः ॥२ ॥
भजे..
नमो वेंकटाधीशसत्पादरेणुस्तवैः पद्यविद्यासहस्प्रयोक्त्रे  । 
मुमुक्षूञ्जनान् नित्यकल्पान्विधात्रे महाहोबलाचार्यवर्याय पित्रे ॥३॥ 
भजे…
अहिर्बुध्यन इत्यादि यस्मिन् प्रमाणं कलौ कश्चिद् इत्यादि शुद्ध पुराणम् । 
मृषा घोषवादादि येनाधरीणं धुरीणं गुरूणां पुमांसं पुराणम् ॥ ४ ॥
भजे…
यतीशाश्रितानां कनिष्ठो भवेयं सदा पञ्चमोपायनिष्ठो भवेयम् ।
गुरोरङ्घ्रिरूपो भवेयं भवेयं हरेरन्तरङ्गो भवेयं भवेयम् ॥५॥
भजे…
अनन्तो हि भूत्वा महाभाष्यकारः प्रबुद्धं चकार त्रयीशब्दजालम्।
पुनस्सोऽयमागत्य मद्भाष्यकारः प्रबुद्धं चकार श्रुतेरर्थमूलम्॥ ६ ॥ 
भजे..
मृषावादिदुर्वादपङ्के निमग्नं गुणाभावहेयस्वरूपादिभग्नम्। 
परं ब्रह्म यस्य प्रभावेण लग्नं बभौ दृष्टकल्याणलक्ष्मीव लग्नम् ॥७॥
भजे..
सदैकान्तिभिर्वादशोद्यत्सहस्रैःचतुःसप्ततिस्वीयसिंहासनस्थैः।
तथा विष्णुभक्तैरनन्तरूपेतं महारङ्गराजाङ्गरक्षाविनीतम् ॥८॥
भजे…
नयागो न योगो न वा तन्त्रमन्त्रौ न हि ज्ञानदाने न भक्तिप्रपत्ती।
तथाप्यात्मलब्धौ न सन्देहगन्धो बलं मे महद्भाष्यकारानुबन्धः ॥९॥
भजे…
कृत वा तपोऽन्यद् बलं वा गुरूणां श्रियः श्रीपतेः किन्नु साक्षादपेक्षा।
घृणा भाष्यकारस्य निष्कारणा वा ममैषा मुखे घोषते कापि भाषा।। १०
भजे…
परव्यूहलीलान्तरार्चाविशेषैरशेषैर्हरिप्समन्वादिवेषैः ।
समुद्धर्तमेतान् भवाब्धेरशक्तः ततोऽभूद्यतिः शेषभावानुशक्तः ॥११॥
भजे…
भवाब्धौ निमग्नान् समुद्धर्तुकामः परो लक्ष्मणार्याद् गुरुर्नेति नेति।
सनिस्साणभेरीमहाकाहलीभिः भटैर्युष्यतां घुष्यतां दिक्तटेषु ॥१२॥
भजे…
सती ब्रह्मविद्या सुतः शैलदीपो गुरुः पारिजातः श्रितं भाग्यरत्नम् ।
ततः कालमेघे स्वयं भोगिराजे प्रसन्ने तदस्मिन्नलभ्यं कुतो नः॥१३॥
भजे…
तृणीकृत्य वैरिञ्चिरुद्रप्रतिष्ठां यदीयाज्रिपाथोजकैंकर्यनिष्ठाम्।
इहामुत्र च प्राभवाः प्रक्रमन्ते तदन्यं गुरुं मूढभावा भजन्ते ॥१४॥
भजे…
यतीन्द्रं विनिन्दन्त्यसद्ग्रन्थकन्थाधराविश्वमिथ्यानुसन्धानगन्धाः ।
जगच्चक्षुषं प्रत्नमेकं शतान्धाः न पश्यन्त्यहो कर्मबन्धादिबान्धाः ॥१५॥
भजे…
नतकम्प्युदको न शब्दे च शक्तो न कस्यावतारोन तन्त्रस्स्वतन्त्रः।
कल्पयेत् सर्वभाषासु गाथाः किमाचार्यमाहात्म्यभीतस्स वेधाः ॥१६॥
भजे…
अहं तूर्ध्वबाहुर्भणामि श्रृणुध्वं शठारातिनाथादिवाचः स्मरध्वम्।
यतीन्द्राम्रिकैङ्कर्यमात्रे यतध्वं मनुध्वं मुरध्वंसि लोके रमध्वम् ॥१७॥
भजे…
सुधापुण्ड्ररेखाविराजल्ललाटं सुधांशुप्रतीकाशकाशत्किरीटम्।
समुद्घाट्य वैकुण्ठकक्षाकवाट सुपर्णादिसंसेव्यमानन्दकूटम् ॥१८॥
भजे…
उषस्सान्ध्यरागारुणन्मघरेखा-कचाकर्षि काषायखण्डोत्तरीयम्।
बृहन्नारदीयोक्तरूपं तुरीयं परं वस्तु पश्यामि लक्ष्मीधरीयम् ॥१९॥
भजे…
अलं देशिकैरन्यचित्तैः प्रमत्तै-रलंस्थाणुकल्पैरलक्ष्मीशतल्पैः।
अपद्माक्षहारैरचक्राङ्गधारै-रसद्भाष्यकारैरशेषावतारैः ॥२०॥
भजे…
प्रफुल्लाब्जनेत्रं प्रभाशोभिगात्रं प्रकृत्या पवित्रं प्रभावैर्विचित्रम्।
हरेरातपत्रं सतां जैतपत्रं सुपर्णस्यमित्र सुमित्रासुपुत्रम् ॥२१॥
भजे…
अहो शांकराः किंकरत्वं प्रयाताः परे भास्करास्तस्कराकारभाजः।
ततो यादवाः पादवारिप्रपूताः तथैवागतास्सौगता भाट्टसांख्याः ॥२२॥
भजे…
शठः कापिलः कोऽपि लक्ष्यो न मोक्षे विनष्टस्वरोऽभूत् स माहेश्वरोऽपि ।
कणादः प्रमाणप्रणादोऽपि शान्तः प्रमाणं ब्रुवाणश्च गाणापतेयः ॥२३॥
भजे…
स्वयं ब्रह्मसूत्राद्यभावेऽपि बुद्ध्या कथं ब्रह्मसूत्रादिभाष्यं विदद्यात्।
कथं तस्य शिष्या बभूवुर्मनुष्याः कुतो नास्ति रोषः कलेरेष दोषः ॥ २४
भजे…
पुरा दर्शितं चोलभृत्कीटकण्ठं समारुह्य सह्याचलेन्द्रोपकण्ठम्।
अकुण्ठप्रभावोऽत्र वैकुण्ठकल्पः सकण्ठीरवं प्राप्य सोल्लुण्ठमास्ते ॥२५॥
भजे…
नमः पुण्यकौडिन्यगोत्रोद्भवेभ्यो नमस्शालसद्ग्रामसवंशजेभ्यः।
नमो वैष्णवेभ्यो महद्भ्योऽर्भकेभ्यो नमः शेषभावादचिद्भ्यश्चचिद्भ्यः ॥२६॥
भजे भाष्यकारं भजे लक्ष्मणार्यं भजे शालसद्ग्रामरामानुजार्यम्॥
।। इति श्रीयतिराजस्तोत्रम् ।।
 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
error: Content is protected !!
%d bloggers like this: